रुचिरा - द्वितीयो भागः डेविडः - आम्! कथं न? ध्वजस्य उपरि स्िथतः केशरवणर्ः त्यागस्य उत्साहस्यच सूचकः। मध्ये स्िथतः श्वेतवणर्ः सािवकतायाः शुचितायाः च द्योतकः। अधः स्िथतः हरितवणर्ः वसुन्ध्रायाः सुषमायाः उवर्रतायाश्च द्योतकः। तेजिन्दरः - शुचे! ध्वजस्य मध्ये एवंफ नीलवण± चवं्रफ वतर्ते? शुचिः - आम् आम्। इदम् अशोकचव्रंफ कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवतर्कम्। सारनाथे अशोकस्तम्भः अस्ित। तस्मात् एव एतत् गृहीतम्। प्रणवः - अस्िमन् चवे्रफ चतुवि±शतिः अराः सन्ित। मेरी - भारतस्य संविधनसभायां 22 जुलाइर् 1947 तमे वषेर् समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्? तेजिन्दरः - अस्मावंफ त्रिावणर्ः ध्वजः स्वाध्ीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अतएव स्वतन्त्रातादिवसे गणतन्त्रादिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूवर्वंफ भवति। जयतु त्रिावणर्ः ध्वजः, जयतु भारतम्। शब्दाथार्ः त्रिावणर्ः ध्वजः 1;कद्ध अस्मावंफ राष्ट्रस्य ध्वजे त्रायः वणार्ः सन्ित। ;खद्ध ध्वजे हरितवणर्ः शान्तेः प्रतीकः अस्ित। ;गद्ध ध्वजे केशरवणर्ः शक्त्याः सूचकः अस्ित। ;घद्ध चव्रेफ त्रिांशत् अराः सन्ित। ;घद्ध चव्रंफ प्रगतेः द्योतकम्। 2पदानि विभक्ितः वचनम् यथा - त्रायाणाम् षष्ठी बहुवचनम् समृ(ेः वणार्नाम् उत्साहस्य नागरिवैफः सािवकतायाः प्राणानाम् सभायाम् 3;कद्ध अस्मावंफ ध्वजे कति वणार्ः सन्ित? ;खद्ध त्रिावणेर् ध्वजे शक्त्याः सूचकः कः वणर्ः? ;गद्ध अशोकचव्रंफ कस्य द्योतकम् अस्ित? ;घद्ध त्रिावणर्ः ध्वजः कस्य प्रतीकः? रुचिरा - द्वितीयो भागः 4;कद्ध अस्मावंफ ध्वजस्य श्वेतवणर्ः कस्य सूचकः अस्ित? ;खद्ध अशोकस्तम्भः वुफत्रा अस्ित? ;गद्ध त्रिावणर्ध्वजस्य उत्तोलनं कदा भवति? ;घद्ध अशोकचवे्रफ कति अराः सन्ित? 5;कद्ध अस्मावंफ त्रिावणर्ध्वजः विश्वविजयी भवेत्। ;खद्ध स्वध्मार्त् प्रमादं वयं न वुफयार्म। ;गद्ध एतत् सवर्म् अस्मावंफ नेतृृणां सद्बु(ेः सत्पफलम्। ;घद्ध शत्राूणां समक्षं विजयः सुनिश्िचतः भवेत्। 6शब्दाः विभक्ितः एकवचनम् द्विवचनम् बहुवचनम् यथा - प‘िका षष्ठी प‘िकायाः प‘िकयोः प‘िकानाम् अग्िनश्िाखा सप्तमी अग्िनश्िाखायाम् सभा चतुथीर् सभाभ्याम् अ¯हसा द्वितीया अ¯हसाम् सपफलता प×चमी सपफलताभ्याम् सूचिका तृतीया सूचिकया त्रिावणर्ः ध्वजः 7 क केशरवणर्ः हरितवणर्ः अशोकचव्रफम् त्रिावणर्ः ध्वजः त्रिावणर्ध्वजस्य स्वीकरणं ख प्रगतेः न्यायस्य च प्रवतर्कम्। 22 जुलाइर् 1947 तमे वषेर् जातम्। शौयर्स्य त्यागस्य च सूचकः। सुषमायाः उवर्रतायाः च सूचकः। स्वाध्ीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

>Chapt-8_N>

ruchiraBhag2-008


अष्टमः पाठः

त्रिवर्णः ध्वजः 

(केचन बालकाः काश्चन बालिकाश्च स्वतन्त्रता-दिवसस्य ध्वजारोहणसमारोहे सोत्साहं गच्छन्तः परस्परं संलपन्ति।)


देवेशः - अद्य स्वतन्त्रता-दिवसः। अस्माकं विद्यालयस्य प्राचार्यः ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति।

डेविडः - शुचे! जानासि त्वम्? अस्माकं ध्वजः कीदृशः?

शुचिः - अस्माकं देशस्य ध्वजः त्रिवर्णः इति।

सलीमः - रुचे! अयं त्रिवर्णः कथम्?

रुचिः - अस्मिन् ध्वजे त्रयः वर्णाः सन्ति, अतः त्रिवर्णः। किं त्वम् एतेषां वर्णानां नामानि जानासि?

सलीमः - अरे! केशरवर्णः, श्वेतः, हरितः च एते त्रयः वर्णाः।

देवेशः - अस्माकं ध्वजे एते त्रयः वर्णाः किं सूचयन्ति?

सलीमः - शृणु, केशरवर्णः शौर्यस्य, श्वेतः सत्यस्य, हरितश्च समृद्धेः सूचकाः सन्ति।

शुचिः - किम् एतेषां वर्णानाम् अन्यदपि महत्त्वम्?

डेविडः - आम्! कथं न? ध्वजस्य उपरि स्थितः केशरवर्णः त्यागस्य उत्साहस्य च सूचकः। मध्ये स्थितः श्वेतवर्णः सात्त्विकतायाः शुचितायाः च द्योतकः। अधः स्थितः हरितवर्णः वसुन्धरायाः सुषमायाः उर्वरतायाश्च द्योतकः।

तेजिन्दरः - शुचे! ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते?

शुचिः - आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति। तस्मात् एव एतत् गृहीतम्।

प्रणवः - अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।

मेरी - भारतस्य संविधानसभायां 22 जुलाई 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्?

तेजिन्दरः - अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अत एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।

जयतु त्रिवर्णः ध्वजः, जयतु भारतम्।

शब्दार्थाः

त्रिवर्णः ध्वजः
- तीन रंगों वाला झंडा (तिरंगा झंडा)
tricolour flag
संलपन्ति
- वार्तालाप करते हैं/करती हैं
 talk
प्रस्तोष्यन्ति
- प्रस्तुत करेंगे/करेंगी
will present
मोदकानि
- लड्डू
a kind of sweet
ऊर्जस्वितायाः
- ऊर्जा की
of energy
अराः
- तीलियाँ
spokes
उत्तोलनम्
- ऊपर उठाना/फहराना
 hoisting



Captureexe
1. शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-

(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।

(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति।

(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति।

(घ) चक्रे त्रिंशत् अराः सन्ति।

(ङ) चक्रं प्रगतेः द्योतकम्।

2. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

पदानि विभक्तिः वचनम्

यथा-त्रयाणाम् षष्ठी बहुवचनम्

समृद्धेः ................. .................

वर्णानाम्  ................. .................

उत्साहस्य ................. .................

नागरिकैः ................. .................

सात्त्विकतायाः ................. .................

प्राणानाम् ................. .................

सभायाम्  ................. .................

3. एकपदेन उत्तरत-

(क) अस्माकं ध्वजे कति वर्णाः सन्ति?

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?

4. एकवाक्येन उत्तरत-

(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?

(ख) अशोकस्तम्भः कुत्र अस्ति?

(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?

(घ) अशोकचक्रे कति अराः सन्ति?

5. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।

(ख) स्वधर्मात् प्रमादं वयं न कुर्याम।

(ग) एतत् सर्वम् अस्माकं नेतृृणां सद्बुद्धेः सत्फलम्।

(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

6. उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्

यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्

अग्निशिखा सप्तमी अग्निशिखायाम् ................. .................

सभा चतुर्थी ................. सभाभ्याम् .................

अहिंसा द्वितीया अहिंसाम् ................. .................

सफलता पञ्चमी ................. सफलताभ्याम् .................

सूचिका तृतीया सूचिकया ................. .................

7. समुचितमेलनं कृत्वा लिखत-

 
केशरवर्णः
 प्रगतेः न्यायस्य च प्रवर्तकम्।
हरितवर्णः 
22 जुलाई 1947 तमे वर्षे जातम्।
अशोकचक्रम्
शौर्यस्य त्यागस्य च सूचकः।
त्रिवर्णः ध्वजः
 सुषमायाः उर्वरतायाः च सूचकः।
त्रिवर्णध्वजस्य स्वीकरणं
स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।



RELOAD if chapter isn't visible.