अष्टमः पाठः प्रश्नत्रायम् प्रस्तुत कथा रूसी कथाकार लियो टाल्स्टाय की प्रसि( कहानी के अंग्रेजी अनुवाद का संक्ष्िाप्त रूप में पुनराख्यान है। यहाँ सेवा तथा परोपकार पर बल देते हुए कहा गया है कि इसके द्वारा कठोर से भी कठोर मनुष्य का हृदय - परिवतिर्त हो सकता है जिसकी वतर्मान समय में मानव समाज के लिए महती आवश्यकता है। कश्िचद् राजा स्वमनसि निरन्तरं प्रवतर्मानायाजिज्ञासायाः समाधानाय कस्िमँश्िचदाश्रमे निवसतो मुनेः पाश्वर्मुपागच्छत्। तदानीं मुनिः स्वकायर्संलग्न एव राजानं यथेष्टमभ्यनन्दत्। राजा तं मुनिं प्रश्नत्रायमपृच्छत् - कः समयः श्रेष्ठः? कः पुरफषः श्रेष्ठः? ¯क कमर् च श्रेष्ठम्? इति। मुनिस्तु राजानं प्रति न ध्यात्वा स्वकायर्मेवाकरोत्। तत्राश्रमे राज्ञो निवासादिव्यवस्थामपि निधार्यर् मुनिनर् किमप्यवोचत् प्रत्युत स्वकीयानि कायार्ण्िा यथापूवर्माचरत्। राजा पुनः पुनः तानेव प्रश्नानुपस्थाप्य मुनेरुत्तरं प्रतीक्ष्िातवान्। किन्तु मुनिनर् किमपि वक्तुमुत्सुकः। स च निरन्तरमाश्रमस्य कषर्णं, माजर्नं, सेचनं, तथान्यानि कायार्ण्िा कतु± व्यापृतः। राजा निराशो भूत्वा प्रत्यावतर्नस्य विचारं चकार। अथापरेद्युः राज्ञो राजधानीं प्रति प्रस्थानोत्सुकस्य पुरतः कश्िचत् शस्त्राहतः श्रमक्लान्तः प्रश्नत्रायम् 65 पुरुषः आश्रममागतः। तस्य कष्टं विलोक्य दयाद्रोर् मुनियर्थासाध्यं तस्योपचारे प्रवृत्तः। राजापि तादृशस्य आतुरस्य दशया विकल इव मुनेस्तस्िमन् कायेर् तदादेशेन सहायतां चकार। कतिपयैरेव दिवसैरागन्तुको मुनेः राज्ञश्चोपचारेण स्वस्थो जातः। स च राजानमुवाच - मया केनापि कारणेन क्रोधाविष्टेन राजैव हन्तव्य आसीत् किन्तु मद्विचारस्य प्रकाशनाद् राजपुरुषाः मां भृशमताडयन् बन्दीकृतवन्तश्च। यथाकथमपि अत्रा निरापदमाश्रममागतो{स्िम पलायमानो बन्धनात्। अधुना भवतो व्यवहारेण कोपो मे गलितः। क्षन्तव्योे{यं वराको जनः। आज्ञापयतु महाराजः। अथ राजानं मुनिरुवाच - फ्मन्ये भवदीयस्य प्रश्नत्रायस्य समाधानमस्य जनस्य परिवतिर्तमानसस्य सेवयैव जातम्। मुनिः पुनरपि विशदीवुफवर्न्नकथयत् - अयमेव श्रेष्ठः समयः यत्रा मानवः परोपकारे कस्िमन्नपि कमर्ण्िा वा व्यापृतः। समक्षं वतर्मानः पुरुष एव श्रेष्ठः कस्यापि सहायतां कामयमानः। सेवैव श्रेष्ठं कमर् येन हृदयपरिवतर्नमपि जायते।य् राजा मुनेरुत्तरप्रदानप(त्या प्रमुदितः भूत्वा स्वनगरं गतः। प्रवतर्मानायाः - चलायमानाः - चलती हुइर् का उपागच्छत् - समीपं गतवान् - निकट गया यथेष्टम् - इच्छानुसारम् - स्वेच्छा से अभ्यनन्दन् - अभ्िानन्दनं वृफतवान् - स्वागत किया प्रतीक्ष्िातवान् - प्रतीक्षाम् अकरोत् - प्रतीक्षा की निधर्यर् - निश्िचतं कृत्वा - निश्िचत करके प्रत्यावतर्नस्य - प्रति$आवतर्नस्य - लौटने का अपरेद्युः - अपरस्िमन् दिने - अगले दिन पुरतः - समक्षम् - सामने विलोक्य - दृष्ट्वा - देखकर यथासाध्यम् - यथासंभवम् - जितना संभव था भृशम् - अत्यध्िकम् - अत्यध्िक निरापदम् - आपद्विहीनम् - विपिा रहित गलितः - समाप्तः - नष्ट हो गया वराको - विवशः - बेचारा विशदीवुफवर्न् - विस्तारं वुफवर्न् - विस्तार करते हुए क्षन्तव्यः - क्षमा योग्यः - क्षमा करने योग्य प्रवृत्तः - संलग्नः - लगा हुआ प्रमुदितः - प्रकषेर्ण मुदितः - अतीव प्रसन्न व्यापृतः - कमर्ण्िा निरतः - काम में लगा हुआ चकार - अकरोत् - किया 1 अधेलिख्िातानां प्रश्नानामुत्तराण्िा संस्कृतभाषया लिखत - ;कद्ध राजा किमथ± मुनेः पाश्वर्मुपागच्छत्? ;खद्ध राजा मुनिं कान् प्रश्नान् अपृच्छत्? ;गद्ध अपरेद्युः कीदृशः पुरफषः आश्रममागतः? ;घद्ध पुरफषः कथं स्वस्थः जातः? ;घद्ध श्रेष्ठः समयः कः? ;चद्ध श्रेष्ठं कमर् किम्? 2 स्थूलपदानि आध्ृत्य प्रश्ननिमार्णं वुफरुत - ;कद्ध राजा मुनिं प्रश्नत्रायमपृच्छत्। ;खद्ध मुनिः स्वकायर्संलग्न एव राजानम् अभ्यनन्दत्। ;गद्ध राजा जिज्ञासायाः समाधनाय मुनेः पाश्वर्मगच्छत्। प्रश्नत्रायम् 67 ;घद्ध राजा प्रश्नान् उपस्थाप्य मुनेः उत्तरं प्रतीक्ष्िातवान्। ;घद्ध राजा शस्त्राहतस्य सहायताम् अकरोत्। 3. ‘क’ स्तम्भे दत्तानां विशेषणपदानां ‘ख’ स्तम्भे दत्तैः विशेष्यैः सह संयोजनं वुफरुत - ;कद्ध ;खद्ध उत्तराण्िा प्रवतर्मानायाः मुनिः शस्त्राहतः आश्रमम् दयाद्रर्ः जिज्ञासायाः वराकः दिवसैः कतिपयैः पुरफषः निरापदम् जनः स्वकीयानि कमर् श्रेष्ठम् कायार्ण्िा 4.पाठात् समस्तपदं चित्वा विग्रह - वाक्य - समक्षं लिखत - ;कद्धपूवर्म् अनतिक्रम्य - ;खद्ध शस्त्रोण आहतः - ;गद्धराज्ञः पुरुषः - ;घद्ध महान् चासौ राजा - ;घद्ध श्रमेण क्लान्तः - ;चद्धआपदानाम् अभावः - 5.पाठात् चित्वा अव्ययपदैः रिक्तस्थानपूति± वुफरुत - ;कद्ध भवतो व्यवहारेण कोपो मे गलितः। ;खद्ध राजा आश्रमे मुनेः आगच्छत्। ;गद्धमुनिः आश्रमे राज्ञो निवासादिव्यवस्थामपि अकरोत्। ;घद्ध राजा तानेव पश्चात् उपस्थापितवान्। 6.अधोलिख्िातानि सवर्नामपदानि कस्मै प्रयुक्तानि इति वाक्यसमक्षे लिखत - ;कद्धराजा तं प्रश्नत्रायमपृच्छत्। ;खद्ध तस्य कष्टं विलोक्य मुनिः तस्योपचारे प्रवृत्तः। ;गद्ध स निराशो भूत्वा प्रत्यावतर्नस्य विचारमकरोत्। ;घद्ध स स्वकायर्संलग्न एव राजानं - यथेष्टमभ्यनन्दत्। 7.सन्िधविच्छेदं वुफरुत - ;कद्धयथेष्टम् - $ ;खद्ध प्रत्यावतर्नम् - $ ;गद्धतथान्यानि - $ ;घद्ध कश्िचत् - $ ;घद्ध सेवयैव - $ ;चद्धतस्योपचारे - $ परियोजनाकायर्म् ‘सेवापरमोधमर्ः’ इति भावं वणर्यन् कामपि सत्यघटनां कथां वा लिखत - भाष्िाक विस्तारः - प्रवतर्मानायाः - प्र $ वृत् $ शानच् ;स्त्राी.द्ध षष्ठी वि. एकवचनम् उपागच्छत् - उप $ आ $ गम् लघ् लकार प्र. पु. एकवचनम् अभ्यनन्दत् - अभ्िा $ √नन्द् $ लघ् लकार प्र. पु. एकवचनम् प्रतीक्ष्िातवान् - प्रति $ इर्क्ष् $ √क्तवतु प्र. पु. एकवचनम् निधार्यर् - निर् $ √धृ ;धारणेद्ध ल्यप् प्रत्यय अवोचत् - वच् $ लुग् लकार प्र. पु. एकवचनम् प्रत्यावतर्नस्य - प्रति $ आ $ वृत् $ ल्युट् प्रत्यय षष्ठी वि. एकवचनम् अपरेद्युः - ;अव्यय शब्दद्ध अपर $ एद्युस् प्रश्नत्रायम् 69 व्यापृतः - वि $ आपृ $ क्त कतिपय - ;विशेषणपदम्द्ध वुफछ, कति $ अयच्, पुव्फ च कतिपय शब्द के रूप अकारान्त पंँु. ‘नर’ शब्द के समान होंगे। इस शब्द का प्रयोग केवल बहुवचन में होता है। चकार - √वृफ लिट् लकार प्रथम पु. एकवचनम् ‘वृफ’ धातु के लिट् लकार का रूप ‘परोक्षे लिट्’ एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुषः चकार चक्रतुः चव्रुफः मध्यमपुरुषः चकथर् चक्रथुः चक्र उत्तमपुरुषः चकार, चकर चवृफव चवृफम लकार छात्रा पाँच लकारों का प्रयोग जानते हैं। किन्तु संस्कृत भाषा में दस लकार होते हैं। दसों लकारों के ज्ञान के लिए ‘गम्’ धतु का उदहारण देखें - गम् धतु लट्लकारः ;वतर्मानकालद्ध एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुषः गच्छति गच्छतः गच्छन्ित मध्यमपुरुषः गच्छसि गच्छथः गच्छथ उत्तमपुरुषः गच्छामि गच्छावः गच्छामः गम् धतु लघ्लकारः ;अनद्यतनभूतद्ध एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुषः अगच्छत् अगच्छताम् अगच्छन् मध्यमपुरुषः अगच्छः अगच्छतम् अगच्छत उत्तमपुरुषः अगच्छम् अगच्छाव अगच्छाम गम् धतु लृट्लकारः ;सामान्य भविष्यद्ध प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः एकवचनम् गमिष्यति गमिष्यसि गमिष्यामि द्विवचनम् गमिष्यतः गमिष्यथः गमिष्यावः बहुवचनम् गमिष्यन्ित गमिष्यथ गमिष्यामः गम् धतु लोट्लकारः ;आज्ञाद्ध प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः एकवचनम् गच्छतु गच्छ गच्छानि द्विवचनम् गच्छताम् गच्छतम् गच्छाव बहुवचनम् गच्छन्तु गच्छत गच्छाम गम् धतु विध्िलिघ्लकारः प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः एकवचनम् गच्छेत् गच्छेः गच्छेयम् द्विवचनम् गच्छेताम् गच्छेतम् गच्छेव बहुवचनम् गच्छेयुः गच्छेत गच्छेम गम् धतु ;आशीलिर्घõद्ध प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः एकवचनम् गम्यात् गम्याः गम्यासम् द्विवचनम् गम्यास्ताम् गम्यास्तम् गम्यास्व बहुवचनम् गम्यासुः गम्यास्त गम्यास्म गम् धतु परोक्षेभूत ;लिट्द्ध प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः एकवचनम् जगाम जगमिथ, जगन्थ जगाम, जगम द्विवचनम् जग्मस्तुः जग्मथुः जग्िमव बहुवचनम् जग्मुः जग्म जग्िमम प्रश्नत्रायम् 71 गम् धतु ;अनद्यतनभविष्य लुट्द्ध एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुषः गन्ता गन्तारौ गन्तारः मध्यमपुरुषः गन्तासि गन्तास्थः गन्तास्थ उत्तमपुरुषः गन्तास्िम गन्तास्वः गन्तास्मः गम् धतु ;सामान्यभूत - लुघ्द्ध एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुषः अगमत् अगमताम् अगमन् मध्यमपुरुषः अगमः अगमतम् अगमत उत्तमपुरुषः अगमम् अगमाव अगमाम गम् धतु ;िया विपिा - लुघ्द्ध एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुषः अगमिष्यत् अगमिष्यताम् अगमिष्यन् मध्यमपुरुषः अगमिष्यः अगमिष्यतम् अगमिष्यत उत्तमपुरुषः अगमिष्यम् अगमिष्याव अगमिष्याम विसगर् सन्िध में विसगर् के पश्चात् स् या त् आने पर विसगर् के स्थान पर स् हो जाता है। यथा - सपर्ः $ सपर्ति त्र सपर्स्सपर्ति कः $ त्वम् त्र कस्त्वम् मुनिः $ तु त्र मुनिस्तु इस सन्िध में पद के अन्ितम स् को रु आदेश होता है तथा रु के उ का लोप हो जाता है। मुनिः $ न त्र मुनिनर् मुनेः $ उत्तरम् त्र मुनेरुत्तरम् विसगर् के पूवर् अ हो और बाद में भी अ हो तो विसगर् का ओ तथा बाद के अकार का पूवर् रूप ;{द्ध हो जाता है। यथा - कः $ अपि त्र को{पि सः $ अपि त्र सोे{पि लेखक परिचयः विश्वकथा - साहित्य में रूसी लेखक लियो टाल्स्टाय की अत्यिाक प्रसिि है। सात्िवकता से पूणर् एवं धरती से जुड़ी हुइर् कहानियों के लेखक के रूप में टाल्स्टाय ने विश्व - कथा जगत् को बहुत प्रभावित किया था। इनका महान् उपन्यास ‘वार एण्ड पीस’ उन्नीसवीं शताब्दी के क्रीमिया - यु( के कथानक पर आधारित है जो यु( की निरथर्कता और शान्ित के पक्ष में वातावरण प्रस्तुत करता है। टाल्स्टाय के विचारों का महात्मा गान्धी पर बहुत प्रभाव पड़ा था। दोनों में पत्राचार भी होता था। विश्व की प्रमुख भाषाओं में भी टाल्स्टाय की रचनाओं के अनुवाद हुए हैं। संस्वृफत में भी उनकी रचनाएँ अनूदित हैं जो ‘टाल्स्टाय कथा संग्रहः’ के नाम से प्रसि( हैं। प्रस्तुत कथा प्रसि( रूसी कथाकार लियो टाल्स्टाय की एक बहुप्रचलित कहानी के अंग्रेशी शीषर्क ष्ज्ीतमम ुनमेजपवदष् का अनूदित संक्ष्िाप्त पुनराख्यान है। यह कहानी सेवा एवं परोपकारपरक होने के अतिरिक्त हृदय परिवतर्नकारी है। कहानी में मानव की महत्ता भी प्रतिपादित है। इस कथा का पुनराख्यान प्रो. उमाशंकर शमार् ‘)ष्िा’ के द्वारा किया गया है। प्रो. )ष्िा न केवल प्रसि( समीक्षक हैं अपितु विदग्ध रचनाकार के रूप में भी प्रसि( हैं। संस्वृफत में आपकी एक मौलिक कथा ‘एकाकित्वम्’ साहित्य अकादमी नयी दिल्ली से प्रकाश्िात ‘संस्वृफत लघुकथा संग्रह’ में संकलित है।

>8>

Shemusi Chapter-8

अष्टमः पाठः

विचित्रः साक्षी

अयं पाठः ओमप्रकाशठक््क°रविरचितकथायाः सम्पादितः अंशः अस्ति। इयं कथा बङ्गसाहित्यकार- बंकिमचन्द्रचटर्जीद्वारा न्यायाधीशरूपेण प्रदत्तनिर्णयोपरि आधारिता अस्ति। न्यायकर्तारः सत्यासत्यनिर्णयार्थं यदा-कदा तादृशीनां युक्तीनां प्रयोगं कुर्वन्ति याभिः प्रमाणं विनापि न्यायः स्यात्। अस्यां कथायामपि न्यायाधीशेन तथैव मार्गः आचरितः।

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्.य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकाश्येेρन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।

पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा। एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्त्तुं कञ्चिद् गृहस्थमुपागतः। करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

विचित्रा दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः। तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः चौरशङ्कया तमन्वधावत् अगृह्णाच्च. परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत ‘‘चौरोऽयं चौरोऽयम्’’ इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्। सर्वं वृत्तमवगत्य स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्। अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ। तदैव कश्चिद् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्गं निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुमादिष्टवान्।

आदेशं प्राप्य उभौ प्राचलताम्। तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्. अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-‘रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य काराद.डं लप्स्यसे’’ इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।





न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्- मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ‘त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः. अतः निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य काराद.डं लप्स्यसे’ इति।

न्यायाधीशः आरक्षिणे काराद.डमादिश्य तं जनं ससम्मानं मुक्तवान्।

अतएवोच्यते - दुष्करा.यपि कर्माणि मतिवैभवशालिनः।

नीतिं यु­क्तिं समालम्ब्य लीलयैव प्रकुर्वते।।


शब्दार्थाः

भूरि - पर्याप्तम् - अत्यधिक - Plenty

उपार्जितवान् - अर्जितवान् - कमाया - Earned

निवसन् - वासं कुर्वन् - रहते हुए - While residing

प्रसृते - विस्तृते - फैलने पर - Spreaded

विजने प्रदेशे - एकान्तप्रदेशे - एकान्त प्रदेश में - In a desolate place

शुभावहा - कल्याणप्रदा - कल्याणकारी - Charitable

गृही - गृहस्वामी - गृहस्थ - House holder

दैवगतिः - भाग्यस्थितिः - भाग्य की लीला  - Destiny

पलायितः - वेगेन निर्गतः/पलायनमकरोत् - भाग गया. चला गया - Ran away

प्रबुद्धः - जागृतः - जागा हुआ - Awakened

त्वरितम् - शीघ्रम् - शीघ्रगामी - Swift

प्रस्थितः - गतः - चला गया  - Went

अर्थकार्श्येन - धनस्य अभावेन - धनाभाव के कारण  - Scarcity of money

पदातिरेव - पादाभ्याम् एव - पैदल ही - On foot

पुंसः - पुरुषस्य - मनुष्य का - Human's

निहिताम् - स्थापिताम् - रखी हुई  - Placed/kept

अन्वधावत् - अन्वगच्छत् - पीछे-पीछे गया - He/she followed

क्रोशितुम् - चीत्कर्तुम् - .जोर .जोर से कहने/चिल्लाने - Shouting

तारस्वरेण - उच्चस्वरेण - ऊँची आवा.ज में - Loudly

अभर्त्सयन् - भर्त्सनाम् अकुर्वन् - भला-बुरा कहा - They criticized

प्रख्याप्य - स्थाप्य - स्थापित करके  - Establishing

चौर्याभियोगे - चौरकर्मणि. चौर्यदोषारोपे - चोरी के आरोप में - On an allegation of stealing

नीतवान् - अनयत् - ले गया - (He) took

अवगत्य - ज्ञात्वा - जानकर - Knowing

दोषभाजनम् - दोषपात्रम् - दोषी - Culprit

उपस्थातुम् - उपस्थापयितुम् - उपस्थित होने के लिए - To be presented

आरक्षिणम् - सैनिकम् (रक्षक पुरुष) - सैनिक को - To guard

आदिष्टवान् - आज्ञां दत्तवान् - आज्ञा दी - (He) ordered

स्थापितवन्तौ - स्थापनां कृतवन्तौ - स्थापना करके - Establishing

तत्रत्यः - तत्र भवः - वहाँ का - Of that place

न्यवेदयत - प्रार्थयत - प्रार्थना की  - (He/she) requested

क्रोशद्वयान्तराले - द्वयोः क्रोशयोः मध्ये - दो कोस के मध्य  - At the distance  of around two miles

आदिश्यताम् - आदेशं दीयताम् - आज्ञा दीजिए - Order

उपेत्य - समीपं गत्वा - पास जाकर - Going near

काष्ठपटले - काष्ठस्य पटले - लकड़ी के तख्ते पर - On a wooden board

निहितम् - स्थापितम् - रखा गया - Kept

पटाच्छादितम् - वस्त्रेणावृतम् - कपड़े से  ढका हुआ - Covered by cloth

वहन्तौ - धारयन्तौ - धारण करते हुए. वहन करते हुए  - Carrying

कृशकायः - दुर्बलं शरीरम् - कम.जोर शरीरवाला  - Lean body

भारवतः - भारवाहिनः - भारवाही - Of heavy built

भारवेदनया - भारपीडया - भार की पीड़ा से - By the pain of the load

क्रन्दनम् - रोदनम् - रोने को - Weeping

निशम्य - श्रुत्वा. आकर्.य - सुन करके - Listening

मुदितः - प्रसन्नः - प्रसन्न - Happy

भुङ्क्ष्व - भोगं कुरु - भोगो - Meet the nemesis

चत्वरे - चतुर्मार्गे/चतुष्पथे - चौराहे पर - At square

लप्स्यसे - प्राप्स्यसे - प्राप्त करोगे - You will get

प्रावारकम् - उत्तरीयवस्त्रम् - ऊपर ओढ़ा हुआ वस्त्र - Covering cloth

अपसार्य - अपवार्य - दूर करके - Removing

अभिवाद्य - अभिवादनं कृत्वा - अभिवादन करके - Saluting

अध्वनि - मार्गे - रास्ते में - On the way

यदुक्तम् - यत् कथितम् - जो कहा गया - Whatever was said

वारितः - निवारितः - रोका गया - Stopped

मुक्तवान् - अत्यजत् - छोड़ दिया - Released

समालम्ब्य - आश्रयं गृहीत्वा - सहारा लेकर - Taking recourse

लीलयैव - कौतुकेन (सुगमतया) - खेल-खेल में - In a flash

आदिश्य - आदेशं दत्त्वा - आदेश देकर - Ordering

अभ्यासः

1. एकपदेन उत्तरं लिखत–

(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?

(ख) अतिथिः केन प्रबुद्धः?

(ग) कृशकायः कः आसीत्?

(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?

(ङ) कं निकषा मृतशरीरम् आसीत्?

2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- 

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?

(ख) जनः किमर्थं पदातिः गच्छति?

(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?

(घ) वस्तुतः चौरः कः आसीत्?

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?

(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?


3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) पुत्रं द्रष्टुं सः प्रस्थितः।

(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत्।

(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।

(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।

(ङ) स भारवेदनया क्रन्दति स्म।

(च) उभौ शवं चत्वरे स्थापितवन्तौ।

4. यथानिर्देशमुत्तरत--

(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?

(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?

(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’- अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?

(ङ) ‘दुष्करा.यपि कर्माणि मतिवैभवशालिनः’-अत्र विशेष्यपदं किम्?

5. सन्धिं/सन्धिविच्छेदं च कुरुत-

(क) पदातिरेव - .................................+ .................................

(ख) निशान्धकारे - .................................+ .................................

(ग) अभि+ आगतम् - .........................................................................

(घ) भोजन+ अन्ते - .........................................................................

(ङ) चौरोऽयम् - .................................+ .................................

(च) गृह+ अभ्यन्तरे - .........................................................................

(छ) लीलयैव - .................................+ .................................

(ज) यदुक्तम् - .................................+ .................................

(झ) प्रबुद्धः+ अतिथिः - .........................................................................

6. अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत-

परिश्रम्य. उपार्जितवान्. दापयितुम्. प्रस्थितः. द्रष्टुम्. विहाय. पृष्टवान्. प्रविष्टः. आदाय. क्रोशितुम्. नियुक्तः. नीतवान्. निर्णेतुम्. आदिष्टवान्. समागत्य. मुदितः।

ल्यप्          क्त        क्तवतु       तुमुन्

............................. ............................. ............................. .............................

............................. ............................. ............................. .............................

............................. ............................. ............................. .............................

7. (अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत-

(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान्।

(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत्।

(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।

(घ) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।

(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

(क) सः ............................. निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)

(ख) गृहस्थः ............................. आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)

(ग) तौ ............................. प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)

(घ) ............................. चौर्याभियोगे त्वं वर्षत्रयस्य काराद.डं लप्स्यसे। (इदम् शब्दे सप्तमी)

(ङ) चौरस्य ............................. प्रबुद्धः अतिथिः। (पादध्वनिशब्दे तृतीया)

योग्यताविस्तारः

(क) विचित्रः साक्षी

न्यायो भवति प्रमाणाधीनः। प्रमाणं विना न्यायं कर्तुं न कोऽपि क्षमः सर्वत्र। न्यायालयेऽपि न्यायाधीशाः यस्मिन् कस्मिन्नपि विषये प्रमाणाभावे न समर्थाः भवन्ति। अतएव. अस्मिन् पाठे चौर्याभियोगे न्यायाधीशः प्रथमतः साक्ष्यं (प्रमाणम्) विना निर्णेतुं नाशक्नोत्। अपरेद्युः यदा स शवः न्यायाधीशं सर्वं निवेदितवान् सप्रमाणं तदा सः आरक्षिणे काराद.डमादिश्य तं जनं ससम्मानं मुक्तवान्। अस्य पाठस्य अयमेव सन्देशः।

(ख) मतिवैभवशालिनः

बुद्धिसम्पत्तिसम्पन्नाः। ये विद्वांसः बुद्धिस्वरूपविभवयुक्ताः ते मतिवैभवशालिनः भवन्ति। ते एव बुद्धिचातुर्यबलेन असम्भवकार्याणि अपि सरलतया कुर्वन्ति।

(ग) स शवः

न्यायाधीश बंकिमचन्द्रमहोदयैः अत्र प्रमाणस्य अभावे किमपि प्रच्छन्नः जनः साक्ष्यं प्राप्तुं नियुक्तः जातः। यद् घटितमासीत् सः सर्वं सत्यं ज्ञात्वा साक्ष्यं प्रस्तुतवान्। पाठेऽस्मिन् शवः एव ‘विचित्रः साक्षी’ स्यात्।

भाषिकविस्तारः

उपार्जितवान् - उप+ अज्ρ+ तवतु

दापयितुम् - दा+ णिच्+ तुमुन्

अदस् (यह) पुँल्लिग् सर्वनाम शब्द

विभक्तिः       एकवचनम्       द्विवचनम्      बहुवचनम्

प्रथमा            असौ           अमू          अमी

द्वितीया           अमुम्           अमू          अमून्

तृतीया           अमुना         अमूभ्याम्        अमीभिः

चतुर्थी          अमुष्मै         अमूभ्याम्        अमीभ्यः

पंचमी         अमुष्मात्        अमूभ्याम्        अमीभ्यः

षष्ठी          अमुष्य          अमुयोः        अमीषाम्

सप्तमी        अमुष्मिन्         अमुयोः         अमीषु

अध्वन् (मार्ग) नकारान्त पुँल्लिङ्ग

विभक्तिः       एकवचनम्       द्विवचनम्      बहुवचनम्

प्रथमा           अध्वा           अध्वानौ        अध्वानः

द्वितीया          अध्वानम्         अध्वानौ        अध्वनः

तृतीया          अध्वना          अध्वभ्याम्       अध्वभिः

चतुर्थी          अध्वने          अध्वभ्याम्       अध्वभ्यः

पंचमी         अध्वनः          अध्वभ्याम्       अध्वभ्यः

षष्ठी         अध्वनः           अध्वनोः       अध्वनाम्

सप्तमी        अध्वनि           अध्वनोः         अध्वसु

सम्बोधन      हे अध्वन्!         हे अध्वानौ!      हे अध्वनः!


RELOAD if chapter isn't visible.