पयार्वुफलम् - परितःव्यावुफलम् - चारों ओर से बेचैन विपयर्स्तम् - अस्तव्यस्तम् - अस्तव्यस्त विपन्नम् - विपिायुक्तम् - ;विपिाग्रस्तद्ध मुसीबत में दारुणविभीष्िाका - भयटरत्रासः - भययुक्त ध्वंसावशेषु - नाशोपरान्तम् अवश्िाष्टेषु - विनाश के बाद बची हुइर् वस्तु मृिाकाक्रीडनकमिव - मृिाकायाः क्रीडनकम् इव - मि‘ी के ख्िालौने के समान बहुभूमिकानि भवनानि - बहव्यः भूमिकाः येषु - बहुमंजिले मकान तानि भवनानि उत्खाताः - उत्पाटिताः - उखड़ गये विशीणार्ः - नष्टाः - बिखर गये पफालद्वये - खण्डद्वये - दो खण्डों में निस्सरन्तीभ्िाः - निगर्च्छन्तीभ्िाः - निकलती हुइर् दुवार्र - दुःखेन निवारयितुं योग्यम् - जिनको हटाना कठिन है महाप्लावनम् - महत् प्लावनम् - विशाल बाढ़ क्षुत्क्षामकण्ठः - क्षुधा क्षामः कण्ठाः येषाम् ते - भूख से दुबर्ल कण्ठ वाले कालकवलिताः - दिवंगताः - मृत्यु को प्राप्त हुए संघषर्णवशात् संस्खलनम् - विचलनम् - स्थान से हटना जनयति - उत्पÛां करोति - उत्पन्न करती है भूकम्पविशेषज्ञाः - भुवः कम्पनरहस्यस्य ज्ञातारः - भूमि के कम्पन्न के रहस्य को जानने वाले खनिज - उत्खननात् प्राप्तं द्रव्यम् - भूमि को खोदने से प्राप्त वस्तु क्वथयति - उत्तप्तं करोति - उबालती है, तपाती है विदायर् - विदीण± कृत्वा, भ्िात्वा - पफाड़कर पाश्वर्स्थ - ग्रामाः - निकटस्थ ग्रामाः - समीप के गाँव उदरे - वुफक्षौ - पेट में समाविशन्ित - अन्तः गच्छन्ित - समा जाती हैं भूकम्पविभीष्िाका उद्गिरन्तः - प्रकटयन्तः - प्रकट करते हुए उपशमनस्य - शान्तेः - शान्त करने का वामनकल्प - वामनसदृशः - बौना निमार्य - निमार्णं कृत्वा - बनाकर पु×जीकरणीयम् - संग्रहणीयम् - इकऋा करना चाहिए योगक्षेमाभ्याम् - अप्राप्तस्य प्राप्ितः योगः - अप्राप्त की प्राप्ित योग है प्राप्तस्य रक्षणं क्षेमः ताभ्याम् प्राप्त की रक्षा क्षेम है 1.अधोलिख्िातानां प्रश्नानाम् उत्तराण्िा संस्वृफतभाषया लिखत - ;कद्धसमस्तराष्ट्रं कीदृव्फ उल्लासे मग्नम् आसीत्? ;खद्ध भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्? ;गद्धपृथ्िाव्याः स्खलनात् ¯क जायते? ;घद्ध समग्रो विश्वः वैफः आतंकितः दृश्यते? ;घद्ध केषां विस्पफोटैरपि भूकम्पो जायते? ;चद्धकीदृशानि भवनानि धराशायीनि जायन्ते? 2.सन्िधं/सन्िधविच्छेदं च वुफरुत - ;अद्ध परसवणर्सन्िधनियमानुसारम् - = ...............;कद्धकि×च $ च ;खद्ध ...............= नगरम् $ तु = ................$ ...............;गद्धविपन्न×च ;घद्ध ..................= किम् $ नु = ................$ ...............;घद्ध भुजनगरन्तु ;चद्ध ...............= सम् $ चयः ;आद्ध विसगर्सन्िधनियमानुसारम् - = ................$ ...............;कद्धश्िाशवस्तु ;खद्ध = विस्पफोटैः $ अपि ;गद्धसहस्रशो{न्ये = $ अन्ये ;घद्ध विचित्रो{यम् = विचित्राः $ ;घद्ध = भूकम्पः $ जायते ;चद्धवामनकल्प एव = $ 3.;अद्ध ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं वुफरुत - क ख सम्पन्नम् प्रविशन्तीभ्िाः ध्वस्तभवनेषु सुचिरेणैव निस्सरन्तीभ्िाः विपन्नम् निमार्य नवनिमिर्तभवनेषु क्षणेनैव विनाश्य ;आद्ध ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानाथर्कपदानि तयोः संयोगं वुफरुत - क ख पयार्वुफलम् नष्टाः विशीणार्ः क्रोधयुक्ताम् उद्गिरन्तः संत्रोट्य विदायर् व्यावुफलम् प्रवुफपिताम् प्रकटयन्तः 4.;अद्ध उदाहरणमनुसृत्य प्रकृति - प्रत्यययोः विभागं वुफरुत - यथा - परिवतिर्तवती - परि $ वृत् $ क्तवतु $ घीप् ;स्त्राीद्ध धृतवान् - $ हसन् - $ भूकम्पविभीष्िाका 61 विशीणार् - वि $ शड्ड $ क्त $ .............. प्रचलन्ती - .................$ ................ $ शतृ $ घीप् ;स्त्राीद्ध हतः - .................$ ................ ;आद्ध पाठात् विचित्य समस्तपदानि लिखत - महत् च तत् कम्पनं = दारुणा च सा विभीष्िाका = ध्वस्तेषु च तेषु भवनेषु = प्राक्तने च तस्िमन् युगे = महत् च तत् राष्ट्रं तस्िमन् = 5. स्थूलपदानि आधृत्य प्रश्ननिमार्णं वुफरुत - ;कद्धभूकम्पविभीष्िाका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवतिर्तवती। ;खद्ध वैज्ञानिकाः कथयन्ित यत् पृथ्िाव्याः अन्तगर्भेर्, पाषाणश्िालानां संघषर्णेन कम्पनं जायते। ;गद्धविवशाः प्राण्िानः आकाशे पिपीलिकाः इव निहन्यन्ते। ;घद्ध एतादृशी भयावहघटना गढ़वालक्षेत्रो घटिता। ;घद्ध तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति। 6. ‘भूकम्पविषये’ प×चवाक्यमितम् अनुच्छेदं लिखत। 7. कोष्ठकेषु दत्तेषु धतुषु निदेर्शानुसारं परिवतर्नं विधय रिक्तस्थानानि पूरयत - ;कद्धसमग्रं भारतं उल्लासे मग्नः ...................। ;अस् $ लट् लकारेद्ध ;खद्ध भूकम्पविभीष्िाका कच्छजनपदं विनष्टं ...................। ;कृ $ क्तवतु $ घीप्द्ध ;गद्धक्षणेनैव प्राण्िानः गृहविहीनाः ...................। ;भू $ लघ्, प्रथम पुरुष बहुवचनद्ध ;घद्ध शान्तानि प×चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ..................। ;भू $ लट्, प्रथम पुरुष बहुवचनद्ध ;घद्ध मानवाः यत् बहुभूमिकभवननिमार्णं करणीयम् न वा? ;पृच्छ् $ लट्, प्रथम पुरुष बहुवचनद्ध ;चद्धनदीवेगेन ग्रामाः तदुदरे ...................। ;सम् $ आ $ विश् $ विध्िलिघ्, प्रथम पुरुष एक वचनद्ध भूकम्प परिचय - भूमि का कम्पन भूकम्प कहलाता है। वह बिन्दु भूकम्प का उद्गम केन्द्र कहा जाता है, जिस बिन्दु पर कम्पन की उत्पिा होती है। कम्पन तरंग के रूप में विविध दिशाओं में आगे चलता है। ये तरंगंे सभी दिशाओं में उसी प्रकार पैफलती हैं जैसे किसी शान्त तालाब में पत्थर के टुकड़ांे को पेंफकने से तरंगें उत्पन्न होती हैं। धरातल पर वुफछ स्थान ऐसे हैं जहाँ भूकम्प प्रायः आते ही रहते हैं। उदाहरण के अनुसार - प्रशान्त महासागर के चारांे ओर के प्रदेश, हिमाचल प्रदेश, गग, ब्रह्मपुत्रा का तटीय भाग इन क्षेत्रों में अनेक भूकम्प आए जिनमें से वुफछ तो अत्यिाक भयावह और विनाशकारी थे। सुनामी भी एक प्रकार का भूकम्पन ही है जिसमें भूमि के भीतर अत्यन्त गहराइर् से तीव्र कम्पन उत्पन्न होता है। यही कम्पन समुद्र के जल को कापफी उँफचाइर् तक तीव्रता प्रदान करता है। पफलस्वरूप तटीय क्षेत्रा सवार्िाक प्रभावित होते हैं। सुनामी का भीषण प्रकोप 20 सितम्बर 2004 को हुआ। जिसकी चपेट में भारतीय प्रायद्वीप सहित अनेक देश आ गये। क्ष्िाति, जल, पावक, गगन और समीर इन प×चतत्वों में सन्तुलन बनाए रखकर प्राकृतिक आपदाओं से बचा जा सकता है। इसके विपरीत असन्तुलित प×चतत्वों से सृष्िट विनष्ट हो सकती है? भूकम्पविषये प्राचीनमतम् प्राचीनैः )ष्िाभ्िाः अपि स्वस्वग्रन्थेषु भूकम्पोल्लेखः कृतः येन स्पष्टं भवति यत् भूकम्पाः प्राचीनकाले{पि आयान्ित स्म। यथा - वराहसंहितायाम् - क्ष्िातिकम्पमाहुरेके मह्यन्तजर्लनिवासिसत्त्वकृतम् भूभारख्िान्नदिग्गजनिःश्वास समुद्भवं चान्ये। अनिलो{निलेन निहितः क्ष्िातौ पतन् सस्वनं करोत्यन्ये केचित् त्वदृष्टकारितमिदमन्ये प्राहुराचायार्ः।। मयूरचित्रो कदाचित् भूकम्पः श्रेयसे{पि कल्पते। एतादृशाः अपि उल्लेखाः अस्मावंफ साहित्ये समुपलभ्यन्ते यथा वारुणमण्डलमौशनसे - प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे, द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम् । अत्रा वृष्िटश्च महती शस्यवृिस्तथैव च, प्रज्ञा धमर्रताश्चैव भयरोगविवजिर्ताः ।। उल्काभूकम्पदिग्दाहसम्भवः शस्यवृ(ये । क्षेमारोग्यसुभ्िाक्षायै वृष्टये च सुखाय च । भूकम्पसमा एव अग्िनकम्पः, वायुकम्पः, अम्बुकम्पः इत्येवम{न्ये{पि भवन्ित।

>7>

Shemusi Chapter-7सप्तमः पाठः

सौहार्दं प्रकृतेः शोभा

अयं पाठः परस्परं स्नेहसौहार्दपूर्णः व्यवहारः स्यादिति बोधयति। सम्प्रति वयं पश्यामः यत् समाजे जनाः आत्माभिमानिनः सञ्जाताः, ते परस्परं तिरस्कुर्वन्ति। स्वार्थपूरणे संलग्नाः ते परेषां कल्याणविषये नैव किमपि चिन्तयन्ति। तेषां जीवनोद्देश्यम् अधुना इदं सञ्जातम् –

"नीचैरनीचैरतिनीचनीचैः सर्वैः उपायैः फलमेव साध्यम्"

अतः समाजे पारस्परिकस्नेहसंवर्धनाय अस्मिन् पाठे पशुपक्षिणां माध्यमेन समाजे व्यवहृतम् आत्माभिमानं दर्शयन्, प्रकृतिमातुः माध्यमेन अन्ते निष्कर्षः स्थापितः यत् कालानुगुणं सर्वेषां महत्त्वं भवति, सर्वे अन्योन्याश्रिताः सन्ति। अतः अस्माभिः स्वकल्याणाय परस्परं स्नेहेन मैत्रीपूर्णव्यवहारेण च भाव्यम्।

(वनस्य दृश्यम् समीपे एवैका नदी अपि वहति।) एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंहं तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।

निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति-

सिंहः - (क्रोधेन गर्जन्) भोः! अहं वनराजः किं भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?

एकः वानरः - यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः। राजा तु रक्षकः भवति परं भवान् तु भक्षकः। अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि?

अन्यः वानरः - किं न श्रुतां त्वया पञ्चतन्त्रोक्तिः -

यो न रक्षति वित्रस्तान् पीड्यमानान्परैः सदा।

जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः।।

काकः - आम् सत्यं कथितं त्वया- वस्तुतः वनराजः भवितुं तु अहमेव योग्यः।

पिकः - (उपहसन्) कथं त्वं योग्यः वनराजः भवितुं, यत्र तत्र का-का इति कर्कशध्वनिना वातावरणमाकुलीकरोषि। न रूपं न ध्वनिरस्ति। कृष्णवर्णं, मेध्यामेध्यभक्षकं त्वां कथं वनराजं मन्यामहे वयम्?

काकः - अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत् काकः दशेत्’- इति प्रकारेण। अस्माकं परिश्रमः एेक्यं च विश्वप्रथितम् अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।

पिकः - अलम् अलम् अतिविकत्थनेन। किं विस्मर्यते यत्-

काकः कृष्.ाः पिकः कृष्णः को भेदः पिककाकयोः।

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।

काकः - रे परभृत्! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।

गजः - समीपतः एवागच्छन् अरे! अरे! सर्वां वार्तां शृ.वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि। वन्यपशून् तु तुदन्तं जन्तुमहं स्वशु.डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।

वानरः - अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)

(गजः तं वृक्षमेव स्वश्ाु.डेन आलोडयितुमिच्छति परं वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)

सिंहः - भोः गज! मामप्येवमेवातुदन् एते वानराः।

वानरः - एतस्मादेव तु कथयामि यदहमेव योग्यः वनराजपदाय येन विशालकायं पराक्रमिणं, भयंकरं चापि सिहं गजं वा पराजेतुं समर्था अस्माकं जातिः। अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः।

(एतत्सर्वं श्रुत्वा नदीमध्यः एकः बकः)

बकः - अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति अहं तु शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजनां निर्मीय च स्वसभायां विविधपदमलंकुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि अतः अहमेव वनराजपदप्राप्तये योग्यः।

मयूरः - (वृक्षोपरितः-साट्टहासपूर्वकम्) विरम विरम आत्मश्लाघायाः किं न जानासि यत्-

यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।

अकर्णधारा जलधौ विप्लवेतेह नौरिव।।

को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।

वानरः - (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।

मयूरः - अरे वानर! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं माम् वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।

काकः - (सव्यङ्ग्यम्) अरे अहिभुक्। नृत्यातिरिक्तं का तव विशेषता यत् त्वां वनराजपदाय योग्यं मन्यामहे वयम्।

मयूरः - यतः मम नृत्यं तु प्रकृतेः आराधना। पश्य! पश्य! मम पिच्छानामपूर्वं सौंदर्यम् (पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः सन्) न कोऽपि त्रैलोक्ये मत्सदृशः सुन्दरः। वन्यजन्तूनामुपरि आक्रमणं कर्तारं तु अहं स्वसौन्दर्येण नृत्येन च आकर्षितं कृत्वा वनात् बहिष्करिष्यामि। अतः अहमेव योग्यः वनराजपदाय।

(एतस्मिन्नेव काले व्याघ्रचित्रकौ अपि नदीजलं पातुमागतौ एतं विवादं शृणुतः वदतः च)

व्याघ्रचित्रकौ - अरे किं वनराजपदाय सुपात्रं चीयते?

एतदर्थं तु आवामेव योग्यौ। यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या।

सिंहः - तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलति।

बकः - सर्वथा सम्यगुक्तम् सिंहमहोदयेन। वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति।

सर्वे पक्षिणः - (उच्चैः)- आम् आम्- कश्चित् खगः एव वनराजः भविष्यति इति।

(परं कश्चिदपि खगः आत्मानं विना नान्यं कमपि अस्मै पदाय योग्यं चिन्तयन्ति तर्हि कथं निर्णयःभवेत् तदा तैः सर्वैः गहननिद्रायां निश्चिन्तं स्वपन्तम् उलूकं वीक्ष्य विचारितम् यदेषः आत्मश्लाघाहीनः पदनिर्लिप्तः उलूको एवास्माकं राजा भविष्यति। परस्परमादिशन्ति च तदानीयन्तां नृपाभिषेकसम्बन्धिनः सम्भाराः इति।)

सर्वे पक्षिणः सज्जायै गन्तुमिच्छन्ति तर्हि अनायास एव--

काकः - (अट्टाहसपूर्णेन-स्वेरण)-सर्वथा अयुक्तमेतत् यन्मयूर- हंस- कोकिल- चक्रवाक-शुक-सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं सर्वे सज्जाः। पूर्णं दिनं यावत् निद्रायमाणः एषः कथमस्मान् रक्षिष्यति। वस्तुतस्तु-

स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।

उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।।

(ततः प्रविशति प्रकृतिमाता)

(सस्नेहम्) भोः भोः प्राणिनः। यूयम् सर्वे एव मे सन्ततिः। कथं मिथ कलहं कुर्वन्ति। वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः। सदैव स्मरत

ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति।

भुङ्क्ते योजयते चैव षड्विधं प्रीतिलक्षणम्।।

(सर्वे प्राणिनः समवेतस्वरेण)

मातः। कथयति तु भवती सर्वथा सम्यक् परं वयं भवतीं न जानीमः। भवत्याः परिचयः कः?

प्रकृतिमाता - अहं प्रकृतिः युष्माकं सर्वेषां जननी? यूयं सर्वे एव मे प्रियाः। सर्वेषामेव मत्कृते महत्त्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु अपितु मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्। तद्यथा कथितम्-

प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।

नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम्।।

अपि च-

अगाधजलसञ्चारी न गर्वं याति रोहितः।

अङ्गुष्ठोदकमात्रेण शफरी फुर्फुरायते।।

अतः भवन्तः सर्वेऽपि शफरीवत् एकैकस्य गुणस्य चर्चां विहाय मिलित्वा प्रकृतिसौन्दर्याय वनरक्षायै च प्रयतन्ताम्।

सर्वे प्रकृतिमातरं प्रणमन्ति मिलित्वा दृढसंकल्पपूर्वकं च गायन्ति-

प्राणिनां जायते हानिः परस्परविवादतः।

अन्योन्यसहयोगेन लाभस्तेषां प्रजायते।।


शब्दार्थाः

धुनोति - धु-गृहीत्वा आन्दोलयति - पकड़ कर घुमा देता है - Twists

कर्णमाकृष्य - श्रोत्रं कर्षयित्वा कर्णम़्आकृष्य - कान खींच कर - Pulling ears

तुदन्ति  - अवसादयतः - तंग करते हैं - Teasing

कलरवम् - पक्षिणां कूजनम् - चहचहाहट को - Birds’ chirping

सन्नपि - सऩ्अपि - होते हुए भी - Even being so

वित्रस्तान् - विशेषेण भीतान् - विशेषरूप से डरे हुओं को  -Very  scared

कृतान्तः-यमराजः - मृत्यु का देवता-यमराज - जीवन का अन्त करने वाले -God of  death

अनृतम् - न ऋतम्, अलीकम् - असत्य- Lie

अतिविकत्थनम् - आत्मश्लाघा - डींगे मारना- Brag about

शृ.वन्नेवाहम् - शृ.वऩ्एव़अहम्-आकर्णयन् एव अहम् - सुनते हुए ही मैं - Listeninig  while

पोथयित्वा - पीडयित्वा हनिष्यामि - पटक-पटक कर मार डालूँगा - Kill by torturing

मारयिष्यामि

विधूय - आकर्ष्य - खींच कर - By dragging

साट्टहासपूर्वकम् - अट्टहासेन सहितम् - ठहाका मारते हुए  - With guffaw

विप्लवेतेह - विप्लवेत़इह-अत्र निमज्जेत् - विशीर्येत-डूब जाती है - May sink

जलधौ - सागरे - समुद्र में - In ocean

नौरिव - नौः़इव-नौकायाः समानम् - नौका के समान - like a boat

शिरसि - मस्तके - सिर पर - on the head

संशीतिलेशस्य - सन्देहमात्रस्य - ”ारा से भी सन्देह की - Slight doubt

वीक्ष्य - विलोक्य/दृष्ट्वा - देखकर - After seeing

सम्भाराः - सामग्Ρयः - सामग्रियाँ - Materials

करालवक्त्रस्य - भयंकरमुखस्य - भयंकर मुख वाले का - Terrible faced

मिथः - परस्परम् - आपस में  - Among themselves

गुह्यमाख्याति - रहस्यं वदति - रहस्य कहता है - Tells the secret

मोदध्वम् - प्रसन्नाः भवत - (तुम सब) प्रसन्न हो जाओ - (You all)  Be happy

अगाधजलसञ्चारी - असीमितजलधारायां भ्रमन् - अथाह जलधारा में संचरण करने वाला - Who moves in deep water

रोहितः - रोहित नाम मत्स्यः - रोहित (रोहू) नामक बड़ी मछली - Rohu, a big  fish

अंगुष्ठोदकमात्रेण - अंगुष्ठमात्रजले - अंगूठे के बराबर जल में अर्थात् थोड़े से जल में - In thumb

शफरी - लघुमत्स्यः - छोटी सी मछली - small fish


अभ्यासः

 1. एकपदेन उत्तरं लिखत–

(क) वनराजः कैः दुरवस्थां प्राप्तः?

(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?

(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?

(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?

2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-

(क) निःसंशयं कः कृतान्तः मन्यते?

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?

(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?

(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?

(छ) अस्मिन्नाटके कति पात्राणि सन्ति?

3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।

(ख) गजः वन्यपशून् तुदन्तं शु.डेन पोथयित्वा मारयति।

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।

(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।

4. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।

(ख) का-का इति बकस्य ध्वनिः भवति।

(ग) काकपिकयोः वर्णः कृष्णः भवति।

(घ) गजः लघुकायः, निर्बलः च भवति।

(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।

(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।

5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

स्थितप्रज्ञः, यथासमयम्, मेध्यामेध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः।

(क) काकः.................................वति।

(ख) .................................परभृत् अपि कथ्यते।

(ग) बकः अविचलः.................................इव तिष्ठति।

(घ) मयूरः.................................इति नाम्नाऽपि ज्ञायते।

(ङ) उलूकः.................................पदनिर्लिप्तः चासीत्।

(च) सर्वेषामेव महत्त्वं विद्यते.................................।

6. वाच्यपरिवर्तनं कृत्वा लिखत-

उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।

- क्रुद्धेन सिंहेन इतस्ततः धाव्यते गर्ज्यते च।

(क) त्वया सत्यं कथितम्।

(ख) सिंहः सर्वजन्तून् पृच्छति।

(ग) काकः पिकस्य संततिं पालयति।

(घ) मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।

(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।

(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।

7. समासविग्रहं समस्तपदं वा लिखत-

(क) तुच्छजीवैः ..................................................................।

(ख) वृक्षोपरि ..................................................................।

(ग) पक्षिणां सम्राट्..................................................................।

(घ) स्थिता प्रज्ञा यस्य सः..................................................................।

(ङ) अपूर्वम्..................................................................।

(च) व्याघ्रचित्रका..................................................................।

योग्यताविस्तारः


आजकल हम यत्र-तत्र सर्वत्र देखते हैं कि समाज में प्रायः सभी स्वयं को श्रेष्ठ समझते हुए परस्पर एक दूसरे का तिरस्कार कर रहे हैं और स्वार्थ साधन में लगे हुए हैं-

"नीचैरनीचैरतिनीचनीचैः सर्वैः उपायैः फलमेव साध्यम्"

अतः समाज में मेल जोल बढ़ाने की दृष्टि से इस पाठ में प्रकृति माता के माध्यम से यह दिखाने का प्रयास किया गया है कि सभी का यथासमय अपना-अपना महत्त्व है तथा सभी एक दूसरे पर आश्रित हैं अतः हमें परस्पर विवाद करते हुए नहीं अपितु मिल-जुलकर रहना चाहिए, तभी हमारा कल्याण संभव है।


विचित्रे खलु संसारे नास्ति किञ्चित् निरर्थकम्।

अश्वश्चेत् धावने वीरः, भारस्य वहने खरः।।

महान्तं प्राप्य सद्बुद्धे! संत्यजेन्न लघुं जनम्।

यत्रास्ति सूचिकाकार्यं कृपाणः किं करिष्यति।।

‘शा.डिल्यशतकम्’ से उद्धृत ये दोनों श्लोक भी इसी बात की पुष्टि करते हैं कि संसार में कोई भी छोटा या बड़ा नहीं है, सभी का अपना-अपना महत्त्व है जैसे- घोड़ा यदि दौड़ने में निपुण है तो गधा भारवहन में, सुई जोड़ने का कार्य करती है तो कृपाण काटने का अतः संसार की क्रियाशीलता और गतिशीलता में सभी का अपना-अपना महत्त्व है। सभी के अपने-अपने कार्य हैं, अपना-अपना योगदान है अतः हमें न तो किसी कार्य को छोटा या बड़ा, तुच्छ या महान् समझना चाहिए और न ही किसी प्राणी को। आपस में मिलजुल कर सौहार्द-पूर्ण तरीके से जीवन यापन करने में ही प्रकृति का सौन्दर्य है। विभिन्न प्राणियों से सम्बन्धित निम्नलिखित श्लोकों को भी पढ़िए और रसास्वादन कीजिए-

इन्द्रियाणि च संयम्य बकवत् प.डितो नरः।

देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत्।।

काकचेष्टः बकध्यानी श्वाननिद्रः तथैव च।

अल्पाहारः गृहत्यागः विद्यार्थी पञ्चलक्षणम्।।

स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः।

हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः।।

प्राप्तव्यमर्थं लभते मनुष्यो, देवोऽपि तं लङ्घयितुं न शक्तः।

तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम्।।

अयं निजः परो वेति गणना लघुचेतसाम्।

उदारचरितानां तु वसुधैव कुटुम्बकम्।।

 वस्तुतः तभी हमारी ये कामनाएँ भी सार्थक हो सकती हैं-

सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।

सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग्भवेत्।।

तथा च अधुना रमणीया हि सृष्टिरेषा जगत्पतेः।

जीवाः सर्वेऽत्र मोदन्तां भावयन्तः परस्परम्।।


RELOAD if chapter isn't visible.