सप्तमः पाठः धतुप्रयोगः ;पावर्ती श्िावं पतिरूपेण अवा×छत्। एतदथ± सा तपस्यां कतुर्म् ऐच्छत्। सा स्वकीयं मनोरथं मात्रो न्यवेदयत्। तत् श्रुत्वा माता मेना चिन्तावुफला अभवत्।द्ध मेना - वत्से! मनीष्िाताः देवताः गृहे एव सन्ित। तपः कठिनं भवति। तव शरीरं सुकोमलं वतर्ते। गृहे एव वस। अत्रौव तवाभ्िालाषः सपफलः भविष्यति। पावर्ती - अम्ब! तादृशः अभ्िालाषः तु तपसा एव पूणर्ः भविष्यति। अन्यथा तादृशं पतिं कथं प्राप्स्यामि। अहं तपः एव चरिष्यामि इति मम सटल्पः। मेना - पुत्रिा! त्वमेव मे जीवनाभ्िालाषः। पावर्ती - सत्यम्। परं मम मनः लक्ष्यं प्राप्तुम् आवुफलितं वतर्ते। सििं प्राप्य पुनः तवैव शरणम् आगमिष्यामि। अद्यैव विजयया सावंफ गौरीश्िाखरं गच्छामि। ;ततः पावर्ती निष्व्रफामतिद्ध ;पावर्ती मनसा वचसा कमर्णा च तपः एव तपति स्म। कदाचिद् रात्रौ स्थण्िडले, कदाचिच्च श्िालायां स्वपिति स्म। एकदा विजया अवदत्।द्ध विजया - सख्िा! तपःप्रभावात् हिंस्रपशवो{पि तव सखायः जाताः। प×चाग्िन - व्रतमपि त्वम् अतपः। पुनरपि तव अभ्िालाषः न पूणर्ः अभवत्। पावर्ती - अयि विजये! किं न जानासि? मनस्वी कदापि ध्ैय± न परित्यजति। अपि च मनोरथानाम् अगतिः नास्ित। विजया - त्वं वेदम् अध्ीतवती। यज्ञं सम्पादितवती। तपःकारणात् जगति तव प्रसििः। ‘अपणार्’ इति नाम्ना अपि त्वं प्रथ्िाता। पुनरपि तपसः पफलं नैव दृश्यते। .........।पावर्ती - अयि आतुरहृदये! कथं त्वं चिन्ितता ;नेपथ्ये - अयि भो! अहम् आश्रमवटुः। जलं वा×छामि।द्ध ;ससम्भ्रमम्द्ध विजये! पश्य को{पि वटुः आगतो{स्ित। ;विजया झटिति अगच्छत्, सहसैव वटुरूपधरी श्िावः तत्रा प्राविशत्द्ध विजया - वटो! स्वागतं ते। उपविशतु भवान्। इयं मे सखी पावर्ती। श्िावं प्राप्तुम् अत्रा भोजनाथ± पफलं वतर्ते? त्वं तु जानासि एव शरीरमाद्यं खलु ध्मर्साध्नम्। ;पावर्ती तूष्णीं तिष्ठतिद्ध वटुः - हे तपस्िवनि! किमथ± तपः तपसि? श्िावाय? ;पावर्ती पुनः तूष्णीं तिष्ठतिद्ध विजया - ;आवुफलीभूयद्ध आम्, तस्मै एव तपः तपति। ;वटुरूपधरी श्िावः सहसैव उच्चैः उपहसतिद्ध - अयि पावर्ति! सत्यमेव त्वं श्िावं पतिम् इच्छसि? ;उपहसन्द्ध नाम्ना .सîड्ढल्पः सििदायकः श्िावः अन्यथा अश्िावः। श्मशाने वसति। यस्य त्राीण्िा नेत्राण्िा, वसनं व्याघ्रचमर्, अग्रागः चिताभस्म, परिजनाश्च भूतगणाः। विंफ तमेव श्िावं पतिम् इच्छसि? पावर्ती - ;व्रुफ(ा सतीद्ध अरे वाचाल! अपसर। जगति न को{पि श्िावस्य यथाथ± स्वरूपं जानाति। यथा त्वमसि तथैव वदसि। ;विजयां प्रतिद्ध सख्िा! चल। यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सो{पि पापभाग् भवति। ;पावर्ती द्रुतगत्या निष्क्रामति। तदैव पृष्ठतः वटोः रूपं परित्यज्य श्िावः तस्याःहस्तं गृÊाति। पावर्ती लज्जया कम्पतेद्ध श्िावः ;विनतानना पावर्ती विहसतिद्ध शब्दाथार्ः 1अभवत् अकथयत् अगच्छत् न्यवेदयत् अपूजयत् स्वपिति तपति प्राविशत् अवदत् वदति स्म वसति स्म रक्षति स्म वदति चरति स्म करोति स्म गच्छति स्म अकरोत् पठति स्म 2यथा - वसति स्म वसतः स्म वसन्ित स्म पूजयति स्म ................ ................ ................ रक्षतः स्म ................ चरति स्म ................ ................ ................ ................ वुफवर्न्ित स्म यथा - प्रथमपुरुषः अकथयत् अकथयताम् अकथयन् अपूजयन् ्प्रथमपुरुषः अरक्षत् रुचिरा - द्वितीयो भागः यथा - मध्यमपुरुषः अवसः अवसतम् अवसत मध्यमपुरुषः ................ अपूजयतम् ................ मध्यमपुरुषः ................ ................ अचरत यथा - उत्तमपुरुषः अपठम् अपठाव अपठाम उत्तमपुरुषः अलिखम् उत्तमपुरुषः अरचयाव 3;कद्ध तपःप्रभावात् के सखायः जाताः? ;खद्ध पावर्ती तपस्याथ± वुफत्रा अगच्छत्? ;गद्ध कः श्मशाने वसति? ;घद्ध श्िावनिन्दां श्रुत्वा का व्रुफ(ा जाता? ;घद्ध वटुरूपेण तपोवनं कः प्राविशत्? 4कः/का कम्/काम् यथा - वत्से! तपः कठिनं भवति? माता पावर्तीम् ;कद्ध अहं तपः एव चरिष्यामि। ;खद्ध मनस्वी कदापि ध्ैय± न परित्यजति। ;गद्ध अपणार् इति नाम्ना त्वं प्रथ्िाता। ;घद्ध पावर्ति! प्रीतो{स्िम तव सटल्पेन। ;घद्ध शरीरमाद्यं खलु ध्मर्साध्नम्। ;चद्ध अहं तव क्रीतदासो{स्िम। .सîड्ढल्पः सििदायकः 5;कद्ध पावर्ती व्रुफ(ा सती किम् अवदत्? ;खद्ध कः पापभाग् भवति? ;गद्ध पावर्ती ¯क कत्तर्ुम् ऐच्छत्? ;घद्ध पावर्ती कया सावंफ गौरीश्िाखरं गच्छति? 6श्िालायां पशवः अम्बा नेत्राण्िा तूष्णीम् 7यथा - वसति स्म = अवसत् ;कद्ध पश्यति स्म = ;खद्ध तपति स्म = ;गद्ध चिन्तयति स्म = ;घद्ध वदति स्म = ;घद्ध गच्छति स्म = यथा - अलिखत;कद्ध ................= कथयति स्म। ;खद्ध ................= नयति स्म। ;गद्ध = पठति स्म। ;घद्ध = धवति स्म। ;घद्ध ................= हसति स्म। ्= लिखति स्म।

>Chapt-7_N>

ruchiraBhag2-007

सप्तमः पाठः

सङ्कल्पः सिद्धिदायकः

धातुप्रयोगः

(पार्वती शिवं पतिरूपेण अवाञ्छत्। एतदर्थं सा तपस्यां कर्तुम् एेच्छत्। सा स्वकीयं मनोरथं मात्रे न्यवेदयत्। तत् श्रुत्वा माता मेना चिन्ताकुला अभवत्।)

मेना - वत्से! मनीषिताः देवताः गृहे एव सन्ति। तपः कठिनं भवति। तव शरीरं सुकोमलं वर्तते। गृहे एव वस। अत्रैव तवाभिलाषः सफलः भविष्यति।

पार्वती - अम्ब! तादृशः अभिलाषः तु तपसा एव पूर्णः भविष्यति। अन्यथा तादृशं पतिं कथं प्राप्स्यामि। अहं तपः एव चरिष्यामि इति मम सङ्कल्पः।

मेना - पुत्रि! त्वमेव मे जीवनाभिलाषः।

पार्वती - सत्यम्। परं मम मनः लक्ष्यं प्राप्तुम् आकुलितं वर्तते। सिद्धिं प्राप्य पुनः तवैव शरणम् आगमिष्यामि। अद्यैव विजयया साकं गौरीशिखरं गच्छामि।

(ततः पार्वती निष्क्रामति)

(पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म। कदाचिद् रात्रौ स्थण्डिले, कदाचिच्च शिलायां स्वपिति स्म। एकदा विजया अवदत्।)

विजया - सखि! तपःप्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः। पञ्चाग्नि-व्रतमपि त्वम् अतपः। पुनरपि तव अभिलाषः न पूर्णः अभवत्।

पार्वती - अयि विजये! किं न जानासि? मनस्वी कदापि धैर्यं न परित्यजति। अपि च मनोरथानाम् अगतिः नास्ति।

विजया - त्वं वेदम् अधीतवती। यज्ञं सम्पादितवती। तपःकारणात् जगति तव प्रसिद्धिः। ‘अपर्णा’ इति नाम्ना अपि त्वं प्रथिता। पुनरपि तपसः फलं नैव दृश्यते।

पार्वती - अयि आतुरहृदये! कथं त्वं चिन्तिता .........

(नेपथ्ये-अयि भो! अहम् आश्रमवटुः। जलं वाञ्छामि।)

(ससम्भ्रमम्) विजये! पश्य कोऽपि वटुः आगतोऽस्ति।

(विजया झटिति अगच्छत्, सहसैव वटुरूपधारी शिवः तत्र प्राविशत्)

विजया - वटो! स्वागतं ते। उपविशतु भवान्। इयं मे सखी पार्वती। शिवं प्राप्तुम् अत्र तपः करोति।

वटुः - हे तपस्विनि! किं क्रियार्थं पूजोपकरणं वर्तते, स्नानार्थं जलं सुलभम्, भोजनार्थं फलं वर्तते? त्वं तु जानासि एव शरीरमाद्यं खलु धर्मसाधनम्।

(पार्वती तूष्णीं तिष्ठति)

वटुः - हे तपस्विनि! किमर्थं तपः तपसि? शिवाय?

(पार्वती पुनः तूष्णीं तिष्ठति)

विजया - (आकुलीभूय) आम्, तस्मै एव तपः तपति।

(वटुरूपधारी शिवः सहसैव उच्चैः उपहसति)

वटुः - अयि पार्वति! सत्यमेव त्वं शिवं पतिम् इच्छसि? (उपहसन्) नाम्ना
शिवः अन्यथा अशिवः। श्मशाने वसति। यस्य त्रीणि नेत्राणि, वसनं व्याघ्रचर्म, अङ्गरागः चिताभस्म, परिजनाश्च भूतगणाः। किं तमेव शिवं पतिम् इच्छसि?

पार्वती - (क्रुद्धा सती) अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य यथार्थं स्वरूपं जानाति। यथा त्वमसि तथैव वदसि।

(विजयां प्रति) सखि! चल। यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सोऽपि पापभाग् भवति।

(पार्वती द्रुतगत्या निष्क्रामति। तदैव पृष्ठतः वटोः रूपं परित्यज्य शिवः तस्याः हस्तं गृह्णाति। पार्वती लज्जया कम्पते)

शिवः - पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। अद्यप्रभृति अहं तव तपोभिः क्रीतदासोऽस्मि।

(विनतानना पार्वती विहसति)

शब्दार्थाः

पतिरूपेण
- पति के रूप में
 as husband
एतदर्थम् (एतद्+अर्थम्)
 - इसके लिये
 for this
अवाञ्छत्
 - चाहती थी
desired
मात्रे
 - माता से
to mother
चिन्ताकुला
- चिन्ता से परेशान
perturbed by anxiety
मनीषिता
 - चाहा गया, इच्छित
desired
तादृशः
 - वैसा
like
अभिलाषः
- इच्छा
desire
तपसा
- तपस्या से
by penance
प्राप्स्यामि
- प्राप्त करूँगी
will get
जीवनाभिलाषः (जीवन+अभिलाषः)
- जीवन की चाह
life's desire
आकुलितम्
 - परेशान
desperate
साकम्
- साथ
with
निष्क्रामति
- निकल जाती है
goes out, exits
मनसा
 - मन से 
by heart/ mind
वचसा
 - वचन से
by word
कर्मणा
 - कर्म से
by act
तपति स्म
- तपस्या करती थी
performed penance
स्थण्डिले
- नंगी भूमि पर
on barren field
शिलायाम्
- चट्टान पर
on rock
स्वपिति स्म
- सोती थी
slept (took rest)
तपःप्रभावात्
- तपस्या के प्रभाव से
because of penance
अतपः
 - तपस्या की 
performed penance
अगतिः
- गतिहीनता
absence of movement
अधीतवती
- पढ़ ली
studied
सम्पादितवती
 - सम्पन्न किया
performed
प्रथिता
- प्रसिद्ध हो गयी
became famous
आतुरहृदये 
- हे व्याकुल हृदयवाली
agitated one
नेपथ्ये
- परदे के पीछे से
from backstage
आश्रमवटुः
- आश्रम का ब्रह्मचारी
pupil from hermitage
झटिति
- जल्दी से
quickly
क्रियार्थम्
 - तप के लिये
for penance
पूजोपकरणम् (पूजा+उपकरणम्)
 - पूजा की सामग्री
means for worship
सुलभम्
- आसानी से प्राप्त
easily available
धर्मसाधनम्
 - धर्म का साधन 
means of religious work
तूष्णीम्
 - चुप
silent
आकुलीभूय
- परेशान होकर
being disturbed
उपहसति
 - उपहास करता है 
makes fun
अन्यथा
- अन्य प्रकार से
otherwise
श्मशाने
- श्मशान में
 in the cremation ground
अङ्गरागः
- अङ्गलेप
anointment
परिजनाः
- मित्र गण
friends
भूतगणाः
- भूतों की टोली
hosts of ghosts
वाचाल
- बड़बोला
babbler
अपसर
- दूर हट
keep away
यथार्थम्
- वास्तविक
true/real
पापभाग्
- पापी
sinful
पृष्ठतः
- पीछे से
from behind
परित्यज्य
 - छोड़कर
after leaving
कम्पते
 - काँपती है
trembles
प्रीतः
 - प्रसन्न 
pleased
सङ्कल्पेन 
- सङ्कल्प से
with firm desire
अद्यप्रभृृति
- आज से
from today
क्रीतदासः
- खरीदा हुआ नौकर
a slave
विनतानना
 - नीचे की ओर मुँह की हुई
 keeping downward  face
विहसति
 - मुस्कुराती है
smiles




Captureexe

1. उच्चारणं कुरुत-

भवत् अकथयत् अगच्छत्

न्यवेदयत् अपूजयत् स्वपिति

तपति प्राविशत् अवदत्

वदति स्म वसति स्म रक्षति स्म

वदति चरति स्म करोति स्म

गच्छति स्म अकरोत् पठति स्म

2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-

(क)एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म वसतः स्म वसन्ति स्म

पूजयति स्म ................. .................

................. रक्षतः स्म .................

चरति स्म ................. .................

................. ................. कुर्वन्ति स्म

(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः ............. अपूजयताम् अपूजयन्

प्रथमपुरुषः अरक्षत् .......... .................

(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- मध्यमपुरुषः अवसः अवसतम् अवसत

मध्यमपुरुषः ................. अपूजयतम् .................

मध्यमपुरुषः ................. ................. अचरत

(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- उत्तमपुरुषः अपठम् अपठाव अपठाम

उत्तमपुरुषः अलिखम् ............ .................

उत्तमपुरुषः ............ अरचयाव .................

3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) तपःप्रभावात् के सखायः जाताः?

(ख) पार्वती तपस्यार्थं कुत्र अगच्छत्?

(ग) कः श्मशाने वसति?

(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?

(ङ) वटुरूपेण तपोवनं कः प्राविशत्?

4. कः/का कं/कां प्रति कथयति- कः/का कम्/काम्

यथा- वत्से! तपः कठिनं भवति? माता पार्वतीम्

(क) अहं तपः एव चरिष्यामि।

(ख) मनस्वी कदापि धैर्यं न परित्यजति। ............. .............

(ग) अपर्णा इति नाम्ना त्वं ­­प्रथिता। ............. .............

(घ) पार्वति! प्रीतोऽस्मि तव सङ्कल्पेन। ............. .............

(ङ) शरीरमाद्यं खलु धर्मसाधनम्। ............. .............

(च) अहं तव क्रीतदासोऽस्मि। ............. .............

5. प्रश्नानाम् उत्तराणि लिखत-

(क) पार्वती क्रुद्धा सती किम् अवदत्?

(ख) कः पापभाग् भवति?

(ग) पार्वती किं कर्त्तुम् एेच्छत्?

(घ) पार्वती कया साकं गौरीशिखरं गच्छति?

6. मञ्जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

माता मौनम् प्रस्तरे जन्तवः नयनानि

शिलायां .................

पशवः .................

अम्बा .................

नेत्राणि .................

तूष्णीम् .................

7. उदाहरणानुसारं पदरचनां कुरुत-

यथा -वसति स्म = अवसत्

(क) पश्यति स्म = .....................

(ख) तपति स्म = .....................

(ग) चिन्तयति स्म = .....................

(घ) वदति स्म = .....................

(ङ) गच्छति स्म = .....................

यथा- अलिखत् = लिखति स्म।

(क) ................. = कथयति स्म।

(ख) ................. = नयति स्म।

(ग) ................. = पठति स्म।

(घ) ................. = धावति स्म।

(ङ) ................. = हसति स्म।


ध्यातव्यम्

‘स्म’ इत्यस्य प्रयोगः।

यदा वर्तमानकालिकैः धातुभिः सह ‘स्म’ इत्यस्य प्रयोगः भवति तदा ते धातवः भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।

यथा- पठति स्म - पढ़ता था।

गच्छति स्म - जाता था।

पञ्चाग्निव्रतम् - चतसृषु दिक्षु अग्निम् आधाय सूर्यस्य निर्निमेषदर्शनं पञ्चाग्निव्रतम्।

अपर्णा - तपस्याक्रमे पर्णानामपि भक्षणं पार्वती त्यक्तवती अतः

सा अपर्णा नाम्ना प्रसिद्धा।



RELOAD if chapter isn't visible.